शिवाष्टकम

भगवान शिव की स्तुति में इस स्तोत्र में आठ छंद हैं और इसलिए इसे शिवाष्टकम कहा जाता है।

शिवाष्टकम

ॐ नमः शिवाय

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजाम ।

भवद्भव्यभूतॆश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडॆ ॥१॥

गलॆ रुण्डमालं तनौ सर्पजालं महाकालकालं गणॆशाधिपालम ।

जटाजूटगङ्गॊत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडॆ ॥२॥

मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम ।

अनादिं ह्यपारं महामॊहमारं शिवं शङ्करं शंभुमीशानमीडॆ ॥३॥

वटाधॊनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम ।

गिरीशं गणॆशं सुरॆशं महॆशं शिवं शङ्करं शंभुमीशानमीडॆ ॥४।

गिरीन्द्रात्मजासङ्गृहीतार्धदॆहं गिरौ संस्थितं सर्वदा पन्नगेहम ।

परब्रह्म ब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शंभुमीशानमीडॆ ॥५॥

यूट्यूब में मेरा वीडियो देखें

सरस्वती नदीसरस्वती नदी

ब्रह्मावर्त

आर्याजाती वाद

यह पेज भी पढ़लिजिए

कपालं त्रिशूलं कराभ्यां दधानं पदांभॊजनम्राय कामं ददानम ।

बलीवर्धमाँनं सुराणां प्रधानं शिवं शङ्करं शंभुमीशानमीडॆ ॥६॥

शरच्चन्द्रगात्रं गणानन्दपात्रं त्रिनॆत्रं पवित्रं धनॆशस्य मित्रम ।

अपर्णाकळत्रं चरित्रं विचित्रं शिवं शङ्करं शंभुमीशानमीडॆ ॥७॥

हरं सर्पहारं चिताभूविहारं भवं वॆदसारं सदा निर्विकारम ।

श्मशानॆ वसन्तं मनॊजं दहन्तं शिवं शङ्करं शंभुमीशानमीडॆ ॥८॥

स्तवं यः प्रभातॆ नरः शूलपाणॆः पठेस्तोत्ररत्नाम त्विहप्राप्या रत्नम ।

सु पुत्रं सु धान्यं सुमित्रं कळत्रं विचित्रैः समाराद्य मॊक्षं प्रयाति ॥९॥

इति श्रीशिवाष्टकं संपूर्णम ॥

ॐ नमः शिवाय

यह पेज भी पढ़लिजिए

Scroll to Top